|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.68. अध्यायः 068
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेन परिक्षित्सूतिकागृहप्रवेशनम्॥ 1 ॥ तत्रोत्तरया कृष्णसमीपे बहुधा विलापपूर्वकं पुत्रोज्जीवनप्रार्थना॥ 2 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
एवमुक्तस्तु राजेन्द्र केशिहा दुःखमुर्च्छितः।
तथेति व्याजहारोच्चैर्ह्लादयन्निव तं जनम्॥ 14-68-1(94372)
वाक्येनैतेन हि तदा तं जनं पुरुषर्षभः।
ह्लादयामास स विभुर्घर्मार्तं सलिलैरिव॥ 14-68-2(94373)
ततः स प्राविशत्तूर्णं जन्मवेश्म पितुस्तव।
अर्चितं पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि॥ 14-68-3(94374)
अपां कुम्भैः सुपूर्णैश्च विन्यस्तैः सर्वतोदिशम्।
घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज॥ 14-68-4(94375)
अस्त्रैश्च विमलैर्न्यस्तैः पावकैश्च समन्ततः।
वृद्धाभिश्चापि रामाभिः परिवारार्थमावृतः।
दक्षैश्च परितो धीर भिषग्भिः कुशलैस्तथा॥ 14-68-5(94376)
ददर्श च स तेजस्वी रक्षोघ्रान्यपि सर्वशः।
द्रव्याणि स्थापितानि स्म विधिवत्कुशलैर्जनैः॥ 14-68-6(94377)
तथायुक्तं च तद्दृष्ट्वा जन्मवेश्म पितुस्तव।
हृष्टोऽभवद्धृषीकेशः साधुसाध्विति चाब्रवीत्॥ 14-68-7(94378)
तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा।
द्रौपदी त्वरिता गत्वा वैराटीं वाक्यमब्रवीत्॥ 14-68-8(94379)
अयमायाति ते भर्तुर्मातुलो मधुसूदनः।
पुराणर्षिरचिन्त्यात्मा समीपमपराजितः॥ 14-68-9(94380)
साऽपि बाष्पकलां वाचं निगृह्याश्रूपि चैव ह।
असंवीताऽभवद्देवी देववत्कृष्णमीयुषी॥ 14-68-10(94381)
सा तथा दूयमानेन हृदयेन तपस्विनी।
दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत्॥ 14-68-11(94382)
पुण्डरीकाक्ष पश्यावां बालेन हि विनाकृतौ।
अभिमन्युं च मां चैव हठात्तुल्यं जनार्दन॥ 14-68-12(94383)
वार्ष्णेयमधुहन्वीर शिरसा त्वां प्रसादये।
द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम्॥ 14-68-13(94384)
यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः।
त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत्॥ 14-68-14(94385)
अजानतीमिषीकेयं जनित्रीं हन्त्विति प्रभो।
अहमेव विनष्टा स्यां नायमेवं गतो भवेत्॥ 14-68-15(94386)
गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम्।
कृत्वा नृशंसं दुर्बुद्धिर्द्रौणिः किं फलमश्नुते॥ 14-68-16(94387)
सा त्वां प्रसाद्य शिरसा याचे शत्रुनिबर्हण।
प्राणांस्त्यक्ष्यामि गोविन्द नायं संजीवते यदि॥ 14-68-17(94388)
अस्मिन्हि बहवः साधो ये ममासन्मनोरथाः।
ते द्रोणपुत्रेण हताः किंनु जीवामि केशव॥ 14-68-18(94389)
आसीन्मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन।
अभिवादयिष्ये हृष्टेति तदिदं वितथीकृतम्॥ 14-68-19(94390)
चपलाक्षस्य दायादे मृतेऽस्मिन्पुरुषर्षभ।
विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः॥ 14-68-20(94391)
चपलाक्षः किलातीव प्रियस्ते मधुसूदन।
सुतं पश्य त्वमस्यैनं ब्रह्मास्त्रेण निपातितम्॥ 14-68-21(94392)
कृतघ्नोऽयं नृशंसोऽयं यथाऽस्य जनकस्तथा।
यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनं॥ 14-68-22(94393)
मया चैतत्प्रतिज्ञातं रणमूर्धनि केशव।
अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिति॥ 14-68-23(94394)
तच्च नाकरवं कृष्ण नृशंसा जीवितप्रिया।
इदानीं मां गतां तत्र किंनु वक्ष्यति फाल्गुनिः॥ ॥ 14-68-24(94395)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टषष्टितमोऽध्यायः॥ 68 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-68-19 पुत्रोत्सङ्गा जनार्दनेति झ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|